इवे प्रतिकृतौ
५।३।९६ इति वक्ष्यति। प्राकेतस्मादिव संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः कप्रत्ययस् तेषु अधिकृतो वेदितव्यः। वक्ष्यति अज्ञाते
५।३।७३ इति। अश्वकः। गर्दभकः। तिङन्तादयं प्रत्ययो निष्यते, अकजिष्यते। तिङश्च
५।३।५६ इत्यनुवृत्तम् उत्तरसूत्रेण एव सम्बन्धनीम्।
तिङन्तादयं प्रत्ययो नेष्यते। "अकजिष्यते" इति।
कथं पुनरेतयोर्भावाभावौ लभ्येते? इत्याह--"तिङश्चेत्यनुवृत्तम्()" इत्यादि। उत्तरत्रैवेत्यवधारणेन त्विहानुवृत्तमपि कप्रत्ययेन सम्बन्धनीयमिति दर्शयति। तच्च पूर्वसूत्राद्वचनग्रहणेऽप्यनुवत्र्तमाने यत उत्पद्यमानेन प्रत्ययेनाज्ञातादेरर्थस्य वचनं भवति, तत्रैव तेन भवितव्यम्()। न च तिङ्न्तादुत्पद्यमानेनापि कप्रत्ययेन सोऽर्थः शक्यते द्योतयितुं, अकचा तु शक्यते।
तस्मात्? "तिङ्श्च"
५।३।५६ इत्येतदनुवृत्तमुत्तरसूत्रेणाकचा सम्बन्धनीयम्(), नेह कप्रत्ययेन। प्राग्ग्रहणमपिद्योतनार्थम्(), इवग्रहणमवध्यर्थम्(); अन्यथाधिकारपरिमाणं न ज्ञायते॥